(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.193. अध्यायः 193
Mahabharata - Adi Parva - Chapter Topics
पूर्वोपायैरपि दुस्त्यजप्राणस्य वसिष्ठस्य पुनर्गङ्गापतनादिनापि प्राणत्यागासंभवे आश्रमं प्रत्यागमनम्॥ 1 ॥ तत्र शक्तिभार्यामदृश्यन्तीनाम्नी गर्भवतीं ज्ञात्वा आत्मघातान्निवर्तनं॥ 2 ॥ अदृश्यन्त्या सह गच्छन्तं वसिष्ठं भक्षयितुमागतस्य कल्माषपादस्य वसिष्ठेन शापान्मोक्षणं॥ 3 ॥ सौदासपत्न्या वसिष्ठाद्गर्भसंभवः॥ 4 ॥ अश्मकनामकपुत्रोत्पत्तिः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

गन्धर्व उवाच। 1-193-0x(1105)(8650)
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः।
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः॥ 1-193-1(8651)
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा।
वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून्॥ 1-193-2(8652)
अथ चिन्तां समापेदे पुनः कौरवनन्दन।
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः॥ 1-193-3(8653)
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः।
तस्या जले महानद्या निममज्ज सुदुःखितः॥ 1-193-4(8654)
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन।
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत्॥ 1-193-5(8655)
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः।
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः॥ 1-193-6(8656)
`सा विपाशेति विख्याता नदी लोकेषु भारत।
ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः।
उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः॥' 1-193-7(8657)
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत।
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च॥ 1-193-8(8658)
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा।
चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्॥ 1-193-9(8659)
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा।
शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता॥ 1-193-10(8660)
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना।
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ॥ 1-193-11(8661)
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा।
अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत्॥ 1-193-12(8662)
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्।
पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम्॥ 1-193-13(8663)
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्।
अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत॥ 1-193-14(8664)
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम्।
अहमेकाकिनी चापि त्वया गच्छामि नापरः॥ 1-193-15(8665)
वसिष्ठ उवाच। 1-193-16x(1106)
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः।
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः॥ 1-193-16(8666)
अदृश्यन्त्युवाच। 1-193-17x(1107)
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते।
समा द्वादश तस्येह वेदानभ्यस्यतो मुने॥ 1-193-17(8667)
गन्धर्व उवाच। 1-193-18x(1108)
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः।
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत॥ 1-193-18(8668)
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ।
कल्माषपादमासीनं ददर्श विजने वने॥ 1-193-19(8669)
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत।
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्॥ 1-193-20(8670)
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः।
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्॥ 1-193-21(8671)
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः।
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः॥ 1-193-22(8672)
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन।
स्वदृतेऽद्य महाभाग सर्ववेदविदां वर॥ 1-193-23(8673)
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात्।
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते॥ 1-193-24(8674)
वसिष्ठ उवाच। 1-193-25x(1109)
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन।
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्॥ 1-193-25(8675)
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि।
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः॥ 1-193-26(8676)
गन्धर्व उवाच। 1-193-27x(1110)
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः।
वारयामास तेजस्वी हुङ्कारेणैव भारत॥ 1-193-27(8677)
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा।
मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम्॥ 1-193-28(8678)
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा।
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः॥ 1-193-29(8679)
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्।
तेजसा रञ्जयामास न्ध्याभ्रमिव भास्करः॥ 1-193-30(8680)
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः।
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्॥ 1-193-31(8681)
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम।
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते॥ 1-193-32(8682)
वसिष्ठ उवाच। 1-93-33x(1111)
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै।
ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन॥ 1-193-33(8683)
राजोवाच। 1-193-34x(1112)
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान्।
त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्॥ 1-193-34(8684)
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम।
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर॥ 1-193-35(8685)
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि।
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये॥ 1-193-36(8686)
गन्धर्व उवाच। 1-193-37x(1113)
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह।
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः॥ 1-193-37(8687)
ततः प्रतिययौ काले वसिष्ठः सह तेन वै।
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर॥ 1-193-38(8688)
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा।
विपाप्मानं महात्मानं दिवौकस इवेश्वरम्॥ 1-193-39(8689)
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम्।
विवेश सहितस्तेन वसिष्ठेन महर्षिणा॥ 1-193-40(8690)
ददृशुस्तं महीपालमयोध्यावासिनो जनाः।
पुरोहितेन सहितं दिवाकरमिवोदितम्॥ 1-193-41(8691)
स च तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः।
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः॥ 1-193-42(8692)
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम्।
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम्॥ 1-193-43(8693)
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन।
अशोभत तदा तेन शक्रेणेवामरावती॥ 1-193-44(8694)
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम्।
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे॥ 1-193-45(8695)
ऋतावथ महर्षिस्तु संबभूव तया सह।
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः॥ 1-193-46(8696)
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः।
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम्॥ 1-193-47(8697)
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा।
तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी॥ 1-193-48(8698)
ततो द्वादशमे वर्षे स जज्ञे पुरषर्षभः।
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत्॥ ॥ 1-193-49(8699)

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्रिनवत्यधिकशततमोऽध्यायः॥ 193 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-193-12 वध्वा स्नुषया॥ 1-193-48 निष्पिपेष मनस्विनीति ङ. पाठः॥ त्रिनवत्यधिकशततमोऽध्यायः॥ 193 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.